Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
किंच-तहेवत्ति, तथैवाऽशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ब्वेति पूर्ववत्, लब्ध्वा किमित्याह-छन्दित्वा-निमन्त्र्य समानधार्मिकान्-साधून् भुङ्क्ते , स्वात्मतुल्यत्वाद्वात्सल्यसिद्धः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दो विशेषानुष्ठानपरश्च यः स भिक्षुरिति ॥४६९॥
भिक्षुलक्षणाधिकार एवाहन य वुग्गहियं कहं कहेज्जा,
न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते,
उवसंते अविहेडए जे स भिक्खू ॥४७०॥ न ये त्ति, न च वैग्रहिकी-कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपि न च कुप्यति परस्यापि तु निभृतेन्द्रियोऽनुद्धतेन्द्रियः प्रशान्तो-रागादिरहित एवास्ते, तथा संयमे-पूर्वोक्ते ध्रुवं-सर्वकालं योगेन-कायवाङ्मनःकर्मलक्षणेन युक्तः-योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथोपशान्तोऽनाकुलः कायचापलादि-रहितः, अविहेठकः न क्वचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति ॥४७०॥ जो सहइ हु गामकण्टए,
अक्कोसपहारतज्जणाओ य । भयभेरवसदसप्पहासे,
समसुहदुक्खसहे य जे स भिक्खू ॥४७१॥ किंच-जो सहइत्ति, यः खलु महात्मा सहते सम्यग्ग्रामकण्टकान् ग्रामा-इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह-आक्रोशान् प्रहारान् तर्जनांश्चेति, तत्राक्रोशा यकारादिभिः, प्रहाराः कशादिभिः, तर्जना असूयादिभिः, तथा भैरवभया-अत्यन्तरौद्रभयजनकाः शब्दाः
श्रीदशवैकालिकम् ।
१९२

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240