Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 217
________________ परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्मनि रणात्, संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानम् ४ । तथा ओमजणपुरस्कारमिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद्राजाऽमात्यादिभिरभ्युत्थानाऽऽसनाऽञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्याऽपि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यं, अधार्मिकराजविषये च वेष्टिप्रयोक्तुः खरकर्मणो नियमत एवेदमधर्मफलं, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानं, एवं सर्वत्र क्रिया योजनीया ५ । तथा वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्वशृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःख-जनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवंभूतमेव चिन्तनीयमिति षष्ठं स्थानम् ६ । तथा अधोगतिः-नरकतिर्यग्गतिस्तस्यां वसनं अधोगतिवासः, एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनं, एवं चिन्तनीयमिति सप्तमं स्थानम् ७ । तथा दुर्लभः खलु भो ! गृहिणां धर्म इति प्रमादबहुलत्वाद् दुर्लभ एव, भो ! इत्यामन्त्रणे गृहस्थानां परमनिर्वृत्तिजनको धर्मः, किंविशिष्टानामित्याह-गृहवासमध्ये वसतामित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादिभवाभ्यासादकारणं स्नेहबन्धनं, एतच्चिन्तनीयमित्यष्टमं स्थानम् ८ । तथा आतङ्कस्तस्य वधाय भवति, आतङ्कः-सद्योघाती विशूचिकादिरोगः से-तस्य गृहिणो धर्मबन्धुरहितस्य वधाय-विनाशाय भवति, २०० श्रीदशवैकालिकम् ।

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240