SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ किंच-तहेवत्ति, तथैवाऽशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ब्वेति पूर्ववत्, लब्ध्वा किमित्याह-छन्दित्वा-निमन्त्र्य समानधार्मिकान्-साधून् भुङ्क्ते , स्वात्मतुल्यत्वाद्वात्सल्यसिद्धः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दो विशेषानुष्ठानपरश्च यः स भिक्षुरिति ॥४६९॥ भिक्षुलक्षणाधिकार एवाहन य वुग्गहियं कहं कहेज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ॥४७०॥ न ये त्ति, न च वैग्रहिकी-कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपि न च कुप्यति परस्यापि तु निभृतेन्द्रियोऽनुद्धतेन्द्रियः प्रशान्तो-रागादिरहित एवास्ते, तथा संयमे-पूर्वोक्ते ध्रुवं-सर्वकालं योगेन-कायवाङ्मनःकर्मलक्षणेन युक्तः-योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथोपशान्तोऽनाकुलः कायचापलादि-रहितः, अविहेठकः न क्वचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति ॥४७०॥ जो सहइ हु गामकण्टए, अक्कोसपहारतज्जणाओ य । भयभेरवसदसप्पहासे, समसुहदुक्खसहे य जे स भिक्खू ॥४७१॥ किंच-जो सहइत्ति, यः खलु महात्मा सहते सम्यग्ग्रामकण्टकान् ग्रामा-इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह-आक्रोशान् प्रहारान् तर्जनांश्चेति, तत्राक्रोशा यकारादिभिः, प्रहाराः कशादिभिः, तर्जना असूयादिभिः, तथा भैरवभया-अत्यन्तरौद्रभयजनकाः शब्दाः श्रीदशवैकालिकम् । १९२
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy