________________
निर्गतसुवर्णरूप्य इति भावः, गृहियोगं - मूर्च्छया गृहस्थसम्बन्धं परिवर्ज्जयति सर्व्वैः प्रकारैः परित्यजति यः स भिक्षुरिति ॥ ४६६ ॥
सम्मद्दिट्ठी सया सया अमूढे,
अस्थि हु नाणे तवे संजमे य ।
तवसा धुणइ पुराणपावगं,
मणवयकायसुसंवुडे जे स भिक्खू ॥४६७ ॥
तथा-सम्मद्दिट्ठीति, सम्यग्दृष्टिः- भावसम्यग्दर्शनी यः सदाऽमूढःअविप्लुतः सन्नेवं मन्यते अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि, तपश्च बाह्याभ्यन्तरकर्म्ममलापनयनजलकल्पं संयमश्च नवकर्म्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणं पापं भावसारतया प्रवृत्त्या, मनोवाक्कायसुसंवृतः-तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति ॥४६७॥
तहेव असणं पाणगं वा,
लभित्ता ।
होही अट्ठो सुए परे वा,
तं न निहे न निहावर जे स भिक्खू ॥४६८॥ किं च-तहेव असणंति, तथैवेति पूर्वर्षिविधानेनाऽशनं पानं च प्रागुक्तस्वरूपं तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य, किमित्याह - भविष्यत्यर्थः- प्रयोजनमनेन श्वः परश्वो वेति तद्-अशनादि न निधत्ते-न स्थापयति स्वयं, तथा न निधापयतिन स्थापयत्यन्यै, स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति ॥ ४६८ ॥
विविहं खाइमसाइमं
तहेव असणं पाणगं वा,
विविहं खाइमसाइमं लभिता ।
छंदिय साहम्मिआण भुञ्जे,
भुच्चा सज्झायरए जे स भिक्खू ॥४६९॥
श्रीदशवैकालिकम् ।
१९१