________________
तम्हा उद्देसिअं न भुंजे, -- . .
नोऽवि पए न पयावए जे स भिक्खू ॥४६४॥ वहणमिति, वधनं-हननं त्रसस्थावराणां-द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंवि-शिष्टानां ?-पृथिवीतृणकाष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौद्देशिकं कृतादि, अन्यच्च सावद्यं न भुङ्क्ते , न केवलं एतत् किन्तु नापि पचति स्वयं, न पाचयत्यन्यैः, न पचन्तमनुजानाति यः स भिक्षुरिति ॥४६४|| रोइअ नायपुत्तवयणे,
अप्प(त्त )समे मन्नेज्ज छप्पि काए । पंच य फासे महव्वयाई,
पंचासवसंवरे जे स भिक्खू ॥४६५॥ रोइत्ति, रोचयित्वा-विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदित्याह-ज्ञातपुत्रवचनं भगवन्महावीरवचनं आत्मसमान्-आत्मतुल्यान्मन्यते षडपि कायान्-पृथिव्यादीन्, पञ्च चेति चशब्दोऽपिशब्दार्थः पञ्चापि स्पृशति-सेवते महाव्रतानि, पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति ॥४६५॥ । चत्तारि वमे सया कसाए,
धुवजोगी य हवेज्ज बुद्धवयणे । अहणे निज्जायरूवरयणे,
गिहिजोगं परिवज्जए जे स भिक्खू ॥४६६॥ किंच-चत्तारिति, चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन सदा-सर्वकालं कषायान्, ध्रुवयोगी चोचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति, यथागममेवेति भावः, अधनश्चतुष्पदादिरहितो निर्जातरूपरजतो
श्रीदशवैकालिकम् ।