________________
सप्रहासा यस्मिन् स्थान इति गम्यते, तत्तथा तस्मिन्, वैतालादिकृतातनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च-योऽचलितसामायिकभावः स भिक्षुरिति ॥४७१॥
एतदेव स्पष्टयतिपडिमं पडिवज्जिया मसाणे,
नो भीयए भयभेरवाइं दिस्स । विविहगुणतवोरए य निच्चं,
न सरीरं चाभिकए जे स भिक्खू ॥४७२॥ पडिमंति, प्रतिमां-मासादिरूपां प्रतिपद्य-सविधिमङ्गीकृत्य स्मशाने-पितृवने, न बिभेति-न भयं याति, भैरवभयानि दृष्ट्वारौद्रभयहेतूनुपलभ्य वैतालिकादिरूपशब्दादि, विविधगुणतपोरतश्च नित्यंमूलगुणाद्यनशनादिसक्तश्च सर्वकालं, न शरीरमभिकाङ्क्षते निःस्पृहतया वार्तमानिकं भावि च, य इत्थंभूतः स भिक्षुरिति ॥४७२।। असई वोसठ्ठचतदेहे,
अक्कुढे व हए लूसिए वा । पुढविसमे मुणी हवेज्जा,
अनियाणे अकोउहल्ले जे स भिक्खू ॥४७३॥ असइंति, न सकृदसकृत्सर्वदैवेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेहः-व्युत्सृष्टो भावप्रतिबन्धाभावेन, त्यक्तो-विभूषाकरणेन, देह:शरीरं येन स तथाविधः, आक्रुष्टो वा ज(य)कारादिना, हतो वा दण्डादिना, लूषितो वा खड्गादिना, भक्षितो वा शृगालादिना, पृथिवीसमः-सर्वंसहो मुनिर्भवति, न च रागादिना पीडयते, तथाऽनिदानो-भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु, य एवंभूतः स भिक्षुरिति ॥४७३॥
श्रीदशवैकालिकम् ।