________________
भिक्षुस्वरूपाभिधानाधिकार एवाह- ... अभिभूय कायेण परीसहाइं,
समुद्धरे जाइपहाओ अप्पयं । विइत्तु जाईमरणं महब्भयं,
तवे रए सामणिए जे स भिक्खू ॥४७४॥ अभूियत्ति, अभिभूय-पराजित्य, कायेन-शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभि-भवे तत्त्वतस्तदनभिभवात्, परीषहान्-क्षुदादीन्, समुद्धारयत्युत्तारयति, जातिपथात्-संसारमार्गादात्मानं कथमित्याह-विदित्वा-विज्ञाय, जाति-मरणं-संसारमूलं महाभयं-महाभयकारणं, तवे-तपसि रतः-सक्तः, किंभूतः ? इत्याहश्रामण्ये-श्रमणानां सम्बन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति ॥४७४॥ हत्थसंजए पायसंजए,
वायसंजए संजइंदिए । अज्झप्परए सुसमाहिअप्पा,
सुत्तत्थं च वियाणइ जे स भिक्खू ॥४७५॥ हत्थत्ति, हस्तसंयतः पादसंयत इति, कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा वाक्संयतः-अकुशलवाग्निरोधात् कुशलवागुदीरणेन संयतेन्द्रियो-निवृत्तविषयप्रसरः अध्यात्मरतःप्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थं च यथावस्थितं विधिग्रहणशुद्धं विजानाति यः सम्यग्यथाविषयं स भिक्षु-रिति ॥४७५॥ उवहिम्मि अमुच्छिए अगिद्धे,
अन्नायउञ्छं पुलनिप्पुलाए ।
१९४
श्रीदशवैकालिकम् ।