________________
कयविक्कयसन्निहिओ विरए,
सव्वसंगावगए य जे स भिक्खू ॥४७६॥ तथा उवहिंमित्ति, उपधौ-वस्त्रादिलक्षणे अमूच्छितः-तद्विषयमोहत्यागेन अगृद्धः-प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः पुलाकनिष्पुलाकः-संयमासारतापादकदोषरहितः, क्रयविक्रयसंनिधिभ्यो-विरतः-द्रव्यभावभेदभिन्न-क्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, सर्वसङ्गापगतश्च योऽपगतद्रव्यभावसङ्गश्च यः, स भिक्षु-रिति ॥४७६॥ अलोल भिक्खू न रसेसु गिज्झे,
उञ्छं चरे जीविय नाभिकरे । इड्डिं च सक्कारणपूयणं च,
चए ठियप्पा अणिहे जे स भिक्खू ॥४७७॥ किंच-अलोलेति, अलोलो नाम नाप्राप्तप्रार्थनापरो भिक्षुः-साधुन रसेषु गृद्धः, प्राप्तेष्वपि अप्रतिबद्ध इति भावः, उञ्छं चरति भावोञ्छमेवेति पूर्ववत् । नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्त्यं । तथा जीवितं नाभिकाङ्क्षते असंयमजीवितं, तथा ऋद्धिं चअमर्षोषध्यादिरूपां, सत्कारं-वस्त्रादिभिः, पूजनं च-स्तवादिना त्यजति नैतदर्थं एव यतते, स्थितात्मा ज्ञानादिषु, अनिभ इत्यमायो यः स भिक्षुरिति ॥४७७॥ न परं वइज्जासि अयं कुसीले,
जेणऽन्न कुप्पेज्ज न तं वएज्जा । जाणिय पत्तेयं पुण्णपावं,
अत्ताणं न समुक्कसे जे स भिक्खू ॥४७८॥ तथा न परमिति, न परं स्वपक्षविनेयव्यतिरिक्तं वदति-अयं
श्रीदशवैकालिकम् ।
१९५