________________
कुशीलस्तदप्रीत्यादिदोषप्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुद्धया वदत्यपि, सर्वथा येनान्यः कश्चित्कुप्यति न तद्ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसम्बन्धि अन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैगर्वमायाति यः स भिक्षुरिति ॥४७८॥
मदप्रतिषेधार्थमाहन जाइमत्ते न य रूवमत्ते,
न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवज्जइत्ता,
धम्मज्झाणरए जे स भिक्खू ॥४७९॥ न जाइमत्तेति, न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न चापि रूपमत्तो यथाऽहं रूपवान्, आदेयः, न लाभमत्तो यथाऽहं लाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः अनेन कुलमदादि-परिग्रहः, अत एवाह-मदान् सर्वानपि कुलादिविषयान्विवयं-परित्यज्य धर्मध्यानरतो-यो यथागमं तत्र सक्तः स भिक्षुरिति ॥४७९।। पवेयए अज्जपयं महामुणी,
धम्मे ठिओ ठावयई परं पि । निक्खम्म वज्जेज्ज कुसीललिङ्ग,
न यावि हासकुहए जे स भिक्खू ॥४८०॥ किंच-पवेयए इत्यादि,. प्रवेदयति-कथयत्याऽऽर्यपदं-शुद्धधर्मपदं परोपकाराय महामुनि:-शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्याह-धर्मे स्थितः स्थापयति परमपि-श्रोतारं, तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति कुशीललिंग-आरम्भादि कुशीलचेष्टितं, तथा न चापि हास्यकुहको-न हास्यकारिकुहकयुक्तो यः स
१९६
श्रीदशवैकालिकम् ।