________________
भिक्षुरिति ॥४८०॥
भिक्षुभावफलमाहतं देहवासं असुई असासयं,
सया चए निच्चहियट्ठियप्पा । छिंदित्तु जाईमरणस्स बंधणं,
उवेइ भिक्खू अपुणागमं गई ॥४८१॥ तिबेमि ॥
सभिक्खुअज्झयणं दसमं समत्तं १० ॥ तं देहेति, तं देहवासमित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासमशुचिं शुक्रशोणितोद्भवत्वादिना, अशाश्वतं प्रतिक्षण-परिणत्या सदा त्यजति ममत्वानुबन्धपरित्यागेन, क इत्याह-नित्यहिते-मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा-अत्यन्तसुस्थितः, स चैवंभूतश्छित्वा जातिमरणस्य संसारस्य बन्धनं-कारण-मुपैति-सामीप्येन गच्छति भिक्षुः-यतिरपुनरागमां नित्यां जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगतिम् ॥४८१॥ ब्रवीमीति पूर्ववत् ॥
इति व्याख्यातं सभिक्ष्वध्ययनम् १० ॥
卐卐 अथ रतिवाक्यानाम प्रथमाचूला । अधुनौघतचूडे आरभ्येते, अनयोश्चायमभिसम्बन्ध इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित्कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्त्वात् सीदेत्, अतस्तत्स्थिरीकरणं कर्तव्यमिति, तदर्थाधिकार एव चूडाद्वयमभिधीयते, तच्चेदं__इह खलु भो ! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयं
श्रीदशवैकालिकम् ।
१९७