________________
तथा ताभ्योऽपि पत्राणि पर्णानि विरोहन्ति । ततस्तदनन्तरं से-तस्य द्रुमस्य पुष्पं फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति ॥४१६॥ एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह
-
T
एवं धम्मस्स विणओ, मूलं परमो से मुक्खो । जेण कित्ति सुयं सिग्घं, नीसेसं चाभिगच्छ ॥४१७॥ एवंति, एवं द्रुममूलवत्, धर्मस्य - परमकल्पवृक्षस्य विनयो मूलंआदिप्रबन्धरूपं परम इत्युग्रो रसः से-तस्य फलरसवन्मोक्षः, स्कन्धादि - कल्पानि तु देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्तव्यः, किं-विशिष्ट इत्याह-येनविनयेन कीर्तिं - सर्वत्र शुभप्रवादरूपां, तथा श्रुतं - अङ्गप्रविष्टादि श्लाघ्यं-प्रशंसास्पदीभूतं निःशेषं - संपूर्णं चाधिगच्छतिप्राप्नोतीति ॥४१७॥ अविनयवतो दोषमाह
जे य चण्डे मिए थद्धे, दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कट्ठे सोयगयं जहा ॥४१८॥
जे यत्ति, यश्च चण्डो - रोषण: मृग: अज्ञो हितमप्युक्तो रुष्यति, तथा स्तब्धो-जात्यादि-मदोन्मत्तो दुर्वादी अप्रियवक्ता निकृतिमान् - मायोपेतः, शठः-संयमयोगेष्वानादृतः, एतेभ्यो दोषेभ्यो विनयं न करोति य उह्यते असौ पापः संसारस्त्रोतसा अविनीतात्मा-सकलकल्याणैकनिबन्धनविनयरहितः किमिवेत्याह- काष्ठं स्त्रोतोगतं नद्यादिवहनीपतितं यथा तद्वदिति ॥ ४१८॥
,
विणयंपि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं, दंडेण पडिसेहए ॥४१९॥ किं च विणयंपीति, विनयमुक्तलक्षणं य उपायेनापि - एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः सम्बन्ध:, चोदित उक्तः, श्रीदशवैकालिकम् ।
१६७