________________
संप्राप्तुकामोऽनुत्तराणि ज्ञानादीन्याराधयेद्विनयकरणेन, न सकृदेव, अपि तु तोषयेत्-असकृत्करणेन तोषं ग्राहयेत् धर्मकामो-निर्जरार्थी, न तु ज्ञानादिफलापेक्षयेति ॥४१४॥ सुच्चाण मेहावी सुभासियाई,
सुस्सूसए आयरियऽप्पमत्तो । आराहइत्ताण गुणे अणेगे,
से पावई सिद्धिमणुत्तरं ॥४१५॥ त्ति बेमि ॥ इइ विणयसमाहीए पढमो उद्देसो समत्तो ९-१ ॥
सोच्चाणंति, श्रुत्वा मेधावी सुभाषितानि-गुराधनफलाभिधायीनि, किमित्याह-सूश्रूषयेत्सदाऽऽचार्यानप्रमत्तो-निद्रादिविरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुसुश्रूषापरः स आराध्य गुणाननेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा ॥४१५॥ ब्रवीमीति पूर्ववत् ॥
__ इति विनयसमाधावुक्तः प्रथम उद्देशकः ९-१ ||
विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिसूत्रंमूलाउ खंधप्पभवो दुमस्स,
खंधाउ पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता,
तओ सि पुष्पं च फलं रसो य ॥४१६॥ मूलाउ इति, मूलादादिप्रबन्धात् स्कन्धप्रभवः-स्थुडोत्पादः, कस्येत्याह-द्रुमस्य-वृक्षस्य, ततः-स्कन्धात्सकाशात् पश्चात्-तदनु समुपयान्तिआत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः कास्ता इत्याह-शाखास्तद्भुजाकल्पाः, तथा शाखाभ्यः-उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता विरोहन्ति-जायन्ते, १६६
श्रीदशवैकालिकम् ।