________________
इतश्चैते पूज्या इत्याह
जहा निसंते तवणच्चिमाली, पभासई केवल भारहं तु । एवायरिओ सुयसीलबुद्धिए, विरायई सुरमज्झे व इंदो ॥४१२ ॥
/
जहत्ति, यथा निशान्ते रात्र्यवसाने दिवस इत्यर्थः, तपन्नर्चिर्माली - सूर्य: प्रभासयति - उद्योतयति केवलं सम्पूर्ण भारतंभरतक्षेत्रं तुशब्दादन्यच्च क्रमेण, एवमर्चिर्मालीवाचार्यः श्रुतेनआगमेन, शीलेन-परद्रोहविरतिरूपेण बुद्धया च - स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृत्तो विराजते सुरमध्य इव - सामानिकादिमध्यगत इव इन्द्र इति ॥४१२ ॥ जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा | खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥४१३॥
जहत्ति, यथा शशी - चन्द्रः, कौमुदीयोगयुक्तः - कार्तिकपौर्णिमास्यामुदित इत्यर्थः स एव विशेष्यते - नक्षत्रतारागणपरिवृतात्मानक्षत्रादिभिर्युक्त इति भावः, खे-आकाशे शोभते, किंविशिष्टे खे ?, विमले अभ्रमुक्ते - अभ्रमुक्तमेवात्यन्तं विमलं भवतीति ख्यापनार्थमेतत्, एवं चन्द्र इव गणी-आचार्य:, शोभते भिक्षुमध्ये - साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति ॥४१३॥
महागरा आयरिया महेसी, समाहिजोगेसुयसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥ ४१४ ॥
किंच- महागरा आयरिएत्ति, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या महैषिणो - मोक्षैषिणः, कथं महैषिण इत्याह-समाधियोगश्रुतशील बुद्धिभिः समाधियोगैः- ध्यानविशेषैः श्रुतेन द्वादशाङ्गाभ्यासेन शीलेन - परद्रोहविरतिरूपेण बुद्धया च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति । तानेवंभूतानाचार्यान्
श्रीदशवैकालिकम् ।
१६५