________________
एतदेव स्पष्टयतिजस्संतिए धम्मपयाइं सिक्खे,
तस्संतिए वेणइअं पउछु । सक्कारए सिरसा पञ्जलीओ,
कायग्गिरा भो मणसा अ निच्चं ॥४१०॥ जस्सत्ति, यस्यान्तिके-यस्य समीपे धर्म-पदानि-धर्मफलानि सिद्धान्तपदानि शिक्षेत-आदद्यात् तस्यान्तिके-तत्समीपे, किमित्याहवैनयिकं प्रयुञ्जीत-विनय एव वैनयिकं तत्कुर्या-दितिभावः, कथमित्याहसत्कारयेदभ्युत्थानादिना पूर्वोक्तेन युक्तः शिरसा-उत्तमाङ्गेन प्राञ्जलि:प्रोद्गताञ्जलि:- सन् कायेन-देहेन गिरा-वाचा मस्तकेन वन्दे इत्यादिरूपया भो इति शिष्यामन्त्रणं मनसा च-भावप्रतिबन्धरूपेण नित्यं-सदैव सत्कारयेत् न तु सूत्रग्रहणकाल एव, कुशलानुबन्ध-व्यवच्छेदप्रसङ्गादिति ॥४१०॥
एवं च मनसि कुर्यादित्याहलज्जा दया संजम बंभचेरं, . कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति,
तेऽहं गुरू सययं पूजयामि ॥४११॥ लज्जा दयेत्ति, लज्जा-अपवादभयरूपा दया-अनुकम्पा संयम:पृथिव्यादिजीवविषयः, ब्रह्मचर्य-विशुद्धतपोऽनुष्ठानं, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो-मोक्षभागिनो जीवस्य विशोधिस्थानं-कर्ममलापनयनस्थानं वर्तते, अनेन ये मां गुरव-आचार्याः सततं-अनवरतं, अनुशासयन्ति-कल्याणयोग्यतां नयन्ति, तानहमेवंभूतान् गुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजार्ह इति ॥४११॥
१६४
श्रीदशवैकालिकम् ।