________________
कुप्यति - रुष्यति नरः । अत्र निदर्शनमाह - दिव्यां - अमानुषीं, असौ- नरः श्रियं - लक्ष्मीं आगच्छन्तीं - आत्मनो भवन्तीं दण्डेन - काष्ठमयेन प्रतिषेधयति - निवारयति । एतदुक्तं भवति - विनयः संपदो निमित्तं, तत्र स्खलितं यदि कश्चिच्चोदयति स गुणः तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः । उदाहरणं चात्र दशारादयः कुरूपागत श्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तद्युक्तः कृष्ण इति ॥४१९ ॥
अविनयदोषोपदर्शनार्थमेवाह
तहेव अविणीयप्पा, उववज्झा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्ठिया ॥४२०॥
तहेवत्ति, तथैवेति- तथैवैते अविनीतात्मानोविनयरहिता अनात्मज्ञाः, उपवाह्यानां - राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः, हयाः - अश्वाः, गजाः- हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याह - दृश्यन्ते - उपलभ्यन्ते, एव मन्दुरादौ अविनयदोषेणोभय-लोकवर्तिना यवसादिवोढारः, दुःखं संक्लेशलक्षणं एधमाना- अनेकार्थत्वादनुभवन्त आभियोग्यं - कर्म्मकरभावं उपस्थिताः - प्राप्ता इति ॥४२० ॥
१६८
एतेष्वेव विनयगुणमाह
तहेव सुविणीयप्पा, उववज्झा हया गया । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥४२१ ॥
तहेवत्ति, तथैव एते सुविनीतात्मानो - विनयवन्त आत्मज्ञा औपवाह्या-राजादीनां हया गजा इति पूर्ववत् । एते किमित्याहदृश्यन्ते - उपलभ्यन्ते, एव सुखं- आह्लादलक्षणं, एधमाना- अनुभवन्तः ऋद्धि प्राप्ता इति विशिष्ट भूषणाऽऽलयभोजनादिभावतः प्राप्तर्द्धयो महायशसो - विख्यातसद्गुणा इति ॥ ४२१ ॥
श्रीदशवैकालिकम् ।