________________
एतदेव विनयाविनयफलं मनुष्यानधिकृत्याहतहेव अविणीयप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहंता, छाया विगलितेंदिया ॥४२२ ॥
तहेवत्ति, तथैव तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् । लोकेऽस्मिन् मनुष्यलोके, नरनार्य इति प्रकटार्थ दृश्यन्ते दुःखमेधमाना इति पूर्ववत्, छारा (ता: ) - कसघातव्रणाङ्कित - शरीराः, विगलितेन्द्रिया:अपनीतनासिकादीन्द्रियाः पारदारिकादय इति ॥४२२ ॥
दंडसत्थपरिज्जुण्णा, असब्भवयणेहि य । कलुणाविवन्नच्छंदा, खुप्पिवासाइपरिगया ॥४२३॥
तथा दंडत्ति, दण्डा - वेत्रदण्डादयः शस्त्राणि खड्गादीनि ताभ्यां परिजीर्णाः समन्ततो दुर्बलभावमापादिताः, तथा असभ्यवचनैश्चखरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सन्तः सतां करुणाहेतुत्वात् करुणा-दीना व्यापन्नाच्छन्दसः-परायत्ततया अपेतस्वाभिप्रायाः, क्षुधाबुभुक्षया पिपासया - तृषा परिगता - व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवं इह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेः दुःखिततरा विज्ञायन्त इति ॥४२३॥
विनयफलमाह
तहेव सुविणीयप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥ ४२४॥
तहेवत्ति, तथैव विनीततिर्यंच इव सुविनीतात्मानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः ऋद्धि प्राप्ता महायशस इति पूर्ववत्, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति ॥४२४॥
श्रीदशवैकालिकम् ।
१६९