________________
एतदेव विनयाविनयफलं देवानधिकृत्याहतहेव अविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति दुहमेहंता, आभिओगमुवट्ठिया ॥४२५॥
तहेवत्ति, तथैव यथा नरनार्यः अविनीतात्मानो भवान्तरेऽकृतविनया देवा-वैमानिका ज्योतिष्का यक्षाश्च-व्यन्तराश्च गुह्यकाभवनवासिनः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाःपराज्ञाकरणपद्धिदर्शनादिना, आभियोग्यमुपस्थिताः-अभियोगआज्ञाप्रदानलक्षणोऽस्यास्तीति अभियोगी तद्भाव आभियोग्यं, कर्मकरभावमित्यर्थः, उपस्थिताः-प्राप्ता इति ॥४२५।।
विनयफलमाहतहेव सुविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति सुहमेहंता, इढेि पत्ता महायसा ॥४२६॥
तहेवत्ति, तथैवेति पूर्ववत्, सुविनीतात्मानोजन्मान्तरकृतविनया निरतिचारधर्माराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अर्हत्कल्याणकादिषु ऋद्धि प्राप्ता इति देवाधिपादिप्राप्तद्धयो महायशसो-विख्यातसद्गुणा इति ॥४२६॥
एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तं, अधुना विशेषतो लोकोत्तरविनयफलमाह
जे आयरियउवज्झायाणं, सुस्सूसावयणंकरा । तेसिं सिक्खा पवटुंति, जलसित्ता इव पायवा ॥४२७॥
जे आयरियत्ति, ये आचार्योपाध्याययो:-प्रतीतयोः शुश्रूषावचनकरा:-पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां शिक्षाग्रहणासेवनालक्षणा भावार्थरूपाः प्रवर्धन्ते-वृद्धिमुपयान्ति, दृष्टान्तमाहजलसिक्ता इव पादपावृक्षा इति ॥४२७॥
श्रीदशवैकालिकम् ।
१७०