________________
एतच्च मनस्याधाय विनयः कार्य इत्याहअप्पणट्ठा परट्ठा वा, सिप्पा नेउणियाणि य । गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ॥४२८॥
अप्पणहत्ति, आत्मार्थ-आत्मनिमित्तं, अनेन मे जीविका भविष्यतीत्येवं, परार्थ वा-परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्यामीत्येवं, शिल्पानि-कुम्भकारक्रियादीनि नैपुण्यानि च-आलेख्यादिकलालक्षणानि गृहिण:-असंयताः, उपभोगार्थ-अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः, इहलोकस्य कारणं-इहलोकनिमित्तमिति ॥४२८॥
जेण बन्धं वहं घोरं, परियावं च दारुणं । सिक्खमाणा नियच्छंति, जुत्ता ते ललिइंदिया ॥४२९॥
जे णं ति, येन-शिल्पादिना शिक्ष्यमाणेन बन्धं-निगडादिभिः वधं-कषादिभिर्घोरं-रौद्र परितापं च, दारुणं-एतज्जनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् नियच्छन्ति-प्राप्नुवन्ति, युक्ता इति-नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रिया-गर्भेश्वरा राजपुत्रादय इति ॥४२९॥
तेवि तं गुरुं पूयंति, तस्स सिप्पस्स कारणा । सक्कारेंति नमसंति, तुट्ठा निद्देसवत्तिणो ॥४३०॥
तेऽवि तमिति, तेऽपि इत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वादिति भावः, तथा सत्कारयन्ति वस्त्रादिना, नमस्यन्ति अञ्जलिग्रहणादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा निर्देशवर्तिन:-आज्ञाकारिण इति ॥४३०॥ ___यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:
श्रीदशवैकालिकम् ।