________________
किं पुणो जे सुयग्गाही, अणंतहियकामए । आयरिया जं वए भिक्खू, तम्हा तं नाइवत्त ॥ ४३१ ॥ किं पुणन्ति, किं पुनः यः साधुः श्रुतग्राही परमपुरुषप्रणीतागमग्रहणाभिलाषी अनन्तहितकामुको मोक्षं यः कामयत इत्यभिप्रायस्तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्वदन्ति किमपि तथाऽनेकप्रकारं भिक्षुः साधुः तस्मात्तदाचार्यवचनं नातिवर्तयेत् युक्तत्वात्सर्वमेव सम्पादयेदिति ॥ ४३१ ॥
विनयोपायमाह
नीयं सेज्जं गईं ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदेज्जा, नीयं कुज्जा य अंजलिं ॥ ४३२ ॥ नीयंति, नीचां शय्यां संस्तारकलक्षणामाचार्यशय्यायाः सकाशात् कुर्यादितियोगः, एवं नीचां गतिमाचार्यगतेस्तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानाद्यत्राचार्य आस्ते तस्मान्नीचतरे स्थाने स्थातव्यमितिभावः । तथा नीचानि - लघुतराणि कदाचित्कारणजाते आसनानि-पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा नीचं च-सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया तथा क्वचित्प्रश्नादौ नीचं नम्रकायं कुर्याच्च सम्पादयेच्चाञ्जलिं न तु स्थाणुवत्स्तब्ध एवेति ॥ ४३२ ॥
,
एवं कायविनयमभिधाय वाग्विनयमाह
संघट्टइत्ता काएणं, तहा उवहिणामवि । खमेह अवराहं मे, वएज्ज न पुणोत्ति य ॥४३३॥
संघ - इति, संघट्टय - स्पृष्ट्वा कायेन देहेन कथञ्चित्तथाविधप्रदेशोपविष्टमाचार्यं तथोपधिनापि कल्पादिना कथञ्चित्संघट्ट्य मिथ्यादुष्कृतपुरस्सरमभिवन्द्य क्षमस्व-सहस्वाऽपराधं - दोषं मे मन्दभाग्यस्यैवं वदेत्
श्रीदशवैकालिकम् ।
१७२
-