________________
ब्रूयान्न पुनरिति न चाहमेनं भूयः करिष्यामीति ॥ ४३३ ||
एतच्च सर्वं बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याहदुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुव्वई ॥४३४॥
दुग्गओविति, दुर्गौरिव - गलिबलीवर्दवत् प्रतोदेन - आरादण्डलक्षणेन चोदितो- विद्धः सन्वहति - नयति क्वापि रथं प्रतीतं, एवं दुग्गौरिव दुर्बुद्धिः - अहितावहबुद्धिः शिष्यः कृत्यानां आचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि उक्त उक्तः पुनः पुनरभिहित इत्यर्थः, प्रकरोति-निष्पादयति प्रयुङ्क्ते चेति ॥ ४३४ ॥
एवं च कृतान्यप्यमूनि न शोभनान्यत आहकालं छंदोवयारं च पडिलेहित्ता ण हेउहिं । तेण तेण उवाएणं, तं तं संपडिवायए ॥ ४३५॥
कालंति, कालंशरदादि - लक्षणं छन्दस्तदिच्छारूपं उपचारंआराधनाप्रकारं, चशब्दाद्देशादिपरिग्रहः, एतत्प्रत्युपेक्ष्य - ज्ञात्वा हेतुभि:यथानुरूपैः कारणैः किमित्याह - तेन तेनोपायेन - गृहस्थावर्ज्जनादिना तत्तत्पित्तहरादिरूपमशनादि सम्प्रतिपादयेत्, यथा कालेऽपि शरदादौ पित्तहरादिभोजनं प्रवातनिवातादिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोमं भाषणं ग्रन्थाभ्यासवैयावृत्त्यकरणादि देशे अनूपदेशाद्युचितं निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं सम्पादयेदिति ॥४३५॥
विवत्ती अविणीयस्स, संपत्ती विणीयस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छ ॥४३६॥ किंच - विवत्तित्ति, विपत्तिरविनीतस्य ज्ञानादिगुणानां संप्राप्तिविनीतस्य च ज्ञानादिगुणानामेव, यस्यैतत् - ज्ञानादिप्राप्त्यप्राप्तिद्वयं उभयतश्रीदशवैकालिकम् ।
१७३