________________
उभयाभ्यां विनयाविनयाभ्यां सकाशाद्भवतीत्येवं ज्ञातं-उपादेयं चैतदिति भवति शिक्षा-ग्रहणासेवनारूपामसावित्थंभूतोऽभिगच्छति-प्राप्नोति, भावत उपादेयपरिज्ञानादिति ॥४३६॥
एतदेव दृढयन्नविनीत-फलमाह- .. जे यावि चंडे मइइड्डिगारवे,
पिसुणे नरे साहसहीणपेसणे । अदिट्ठधम्मे विणए अकोविए,
असंविभागी न हु तस्स मोक्खो ॥४३७॥ जे यावित्ति, यश्चापि चण्डः प्रव्रजितोऽपि यो रोषणः मतिऋद्धिगौरव इति ऋद्धिगौरवमतिगौरवे अभिनिविष्टः पिशुन:पृष्ठिमांसखादको नरो-नरव्यञ्जनो न भावनरः साहसिकः-अकृत्यकरणपरः 'हीनप्रेषणो-हीनगुर्वाज्ञापरः अदृष्टधा -सम्पगनुपलब्धश्रुतादिधर्मा विनयेऽकोविदो-विनयविषयेऽपण्डितः असंविभागी-यत्र क्वचन लाभे न संविभागवान्, य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यग्दृष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादिति ॥४३७॥
विनयफलाभिधानोपसंहरन्नाहनिद्देसवत्ती पुण जे गुरूणं,
सुयत्थधम्मा विणयम्मि कोविया। तरित्तु ते ओहमिणं दुरुत्तरं,
खवित्तु कम्मं गइमुत्तमं गय ॥४३८॥त्तिबेमि॥ विणयसमाहीए बीओ उद्देसओ समत्तो ९-२ ॥
१. जं च पेसगं ___ आयरिएहिं दिण्णं तं देसकालादीहिं हीणं करेइ ।
१७४
श्रीदशवैकालिकम् ।