Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 202
________________ भवइ य एत्थ सिलोगोनाणमेगग्गचित्तो य, ठिओ अ ठावई परं । सुयाणि य अहिज्जित्ता, रयो सुयसमाहिए ॥४५६॥ भवति चात्र श्लोक इति पूर्ववत्, स चायं नाणमिति, ज्ञानमित्यध्ययनपरस्य ज्ञानं भवत्येकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद्धर्मस्थितो भवति, स्थापयति परमिति स्वयं धर्मस्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीते, अधीत्य च रतः-सक्तो भवति, श्रुतसमाधाविति ॥४५६॥ उक्तः श्रुतसमाधिः, तपःसमाधिमाह चउव्विहा खलु तवसमाही भवइ, तंजहा-नो इहलोगट्ठयाए तवमहिढेज्जा १, नो परलोगट्ठयाए तवमहिद्वेज्जा २, नो कित्तिवण्णसदसिलोगट्ठयाए तवमहिढेज्जा ३, नन्नत्थ निज्जरठ्ठयाए तवमहिढेज्जा ४, चउत्थं पयं भवइ । सू० १९ ।। ___ चउव्विहा इत्यादि, चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थ-मिहलोकनिमित्तं लब्ध्यादिवाञ्छया तपः-अनशनादिरूपमधितिष्ठेत्-कुर्यात् धर्मिलवत् १, तथा न परलोकार्थ-जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद् ब्रह्मदत्तवत् २, एवं न कीर्ति-वर्ण-शब्द-श्लाघार्थमिति, सर्वदिग्व्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णो, अर्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत् ३, अपि तु नान्यत्र निर्जरार्थमिति, न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिरैव फलं भवति तथाधितिष्ठेदित्यर्थः ४, चतुर्थं पदं भवति ।१९। भवइ य एत्थ सिलोगो श्रीदशवैकालिकम् । १८५

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240