________________
भवइ य एत्थ सिलोगोनाणमेगग्गचित्तो य, ठिओ अ ठावई परं । सुयाणि य अहिज्जित्ता, रयो सुयसमाहिए ॥४५६॥
भवति चात्र श्लोक इति पूर्ववत्, स चायं नाणमिति, ज्ञानमित्यध्ययनपरस्य ज्ञानं भवत्येकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद्धर्मस्थितो भवति, स्थापयति परमिति स्वयं धर्मस्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीते, अधीत्य च रतः-सक्तो भवति, श्रुतसमाधाविति ॥४५६॥
उक्तः श्रुतसमाधिः, तपःसमाधिमाह
चउव्विहा खलु तवसमाही भवइ, तंजहा-नो इहलोगट्ठयाए तवमहिढेज्जा १, नो परलोगट्ठयाए तवमहिद्वेज्जा २, नो कित्तिवण्णसदसिलोगट्ठयाए तवमहिढेज्जा ३, नन्नत्थ निज्जरठ्ठयाए तवमहिढेज्जा ४, चउत्थं पयं भवइ । सू० १९ ।। ___ चउव्विहा इत्यादि, चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थ-मिहलोकनिमित्तं लब्ध्यादिवाञ्छया तपः-अनशनादिरूपमधितिष्ठेत्-कुर्यात् धर्मिलवत् १, तथा न परलोकार्थ-जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद् ब्रह्मदत्तवत् २, एवं न कीर्ति-वर्ण-शब्द-श्लाघार्थमिति, सर्वदिग्व्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णो, अर्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत् ३, अपि तु नान्यत्र निर्जरार्थमिति, न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिरैव फलं भवति तथाधितिष्ठेदित्यर्थः ४, चतुर्थं पदं भवति ।१९।
भवइ य एत्थ सिलोगो
श्रीदशवैकालिकम् ।
१८५