________________
भवइ य एत्थ सिलोगोपेहेइ हियाणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए । न य माणमएण मज्जई, विणयसमाही आययट्ठिए ॥४५५॥
भवति चात्र श्लोकः, अत्रेति विनयसमाधौ श्लोकः-छन्दोविशेषः, स चायं-पेहेइत्ति-प्रार्थयते हितानुशासनं-इच्छति इहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, शुश्रूषतीत्यनेकार्थत्वात् यथाविषयमवबुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति-यथावत्करोति, न च कुर्वन्नपि मानमदेन-मानगर्वेण माद्यति-मदं याति, विनयसमाधौ-विनयसमाधिविषये आयतार्थिकः-मोक्षार्थीति ॥४५५॥
उक्तो विनयसमाधिः, श्रुतसमाधिमाह
चउव्विहा खलु सुयसमाही भवइ, तंजहा-सुयं मे भविस्सइत्ति अज्झाइयव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइयव्वयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाइयव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइयव्वयं भवइ ४ चउत्थं पयं भवइ । सू० १८ ।
चउव्विहा इत्यादि, चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्धया अध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न च विप्लुतचित्त इत्यध्येतव्यं भवति अनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन् विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यने न चालम्बनेनाऽध्येतव्यं भवति ३, तथा अध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेन चालम्बनेनाध्येतव्यं ४ चतुर्थं पदं भवति ।१८।
श्रीदशवैकालिकम् ।
१८४