________________
विणए सुए य तवे, आयारे निच्चपंडिया । अभिरामयंति अप्पाणं, जे भवंति जिइंदिया ॥४५४॥
विणए इत्यादि, विनये-यथोक्तलक्षणे श्रुते-अङ्गादौ तपसिबाह्यादौ आचारे च-मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, नित्यंसर्वकालं पण्डिताः-सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याहअभिरमयन्त्यने-कार्थत्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं-जीवं, किमिति ?, अस्योपादेयत्वात्, क एवं कुर्व्वन्तीत्याह-ये भवन्ति जितेन्द्रियाः-जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेत-दिति ॥४५४॥
विनयसमाधिमभिधित्सुराह
चउव्विहा खलु विणयसमाही हवइ, तंजहा-अणुसासिज्जंतो सुस्सूसइ १, सम्मं संपडिवज्जइ २, वेयमाराहइ ३, न य भवइ अत्तसंपग्गहिए ४, चउत्थं पयं भवइ । सू० १७ । ___चउव्विहेत्यादि, चतुर्विधः खलु विनय-समाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, अणुसासिज्जंतो इत्यादि, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषति-तदनुशासनमर्थितया श्रोतु-मिच्छति १, इच्छाप्रवृत्तितः तत् सम्यक्सम्प्रतिपद्यते, सम्यग्-अविपरीत-मनुशासनतत्त्वं यथाविषयमवबुध्यते २, स चैवं विशिष्टप्रतिपत्तेरेव वेद-माराधयति, वेद्यते अनेनेति वेदः-श्रुतज्ञानं तद्यथोक्तानुष्ठानपरतया सफलीकरोति ३, अत एव विशुद्धप्रवृत्तेर्न च भवत्यात्मसंप्रगृहीतः-आत्मा एव सम्यक् प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथा, अनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीति अभिप्रायः, चतुर्थ पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति ४ ॥१७॥
श्रीदशवैकालिकम् ।
१८३