________________
त्वाऽष्टप्रकारं कर्मेति भावः, किमित्याह-भास्वरां ज्ञानतेजोमयत्वादतुलांअनन्यसदृशीं गति-सिद्धिरूपां व्रजतीति-गच्छति, तदा जन्मान्तरेण वा सुकुलप्रत्यागमनप्रत्ययोत्पादादिना प्रकारेण ॥४५३॥ ब्रवीमीति पूर्ववत् ॥
इति विनयसमाधावुक्तस्तृतीय उद्देशकः ९-३ ॥
' ' अथ चतुर्थ उच्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह
सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु थेरेहि भगवंतेहिं, चत्तारि विणय-समाहिट्ठाणा पन्नत्ता । कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता ?, इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, तंजहाविणयसमाही, सुयसमाही, तवसमाही, आयारसमाही । सू० १६ ।
सुयं मे इति, श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातमित्येतद् यथा षड्जीवनिकायां (पृ. १९) तथैव दृष्टव्यं, इह खल्विति, इह-क्षेत्रे प्रवचने वा, खलुशब्दो विशेषणार्थः, न केवलमिह, किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि, स्थविरैःगणधरैर्भगवद्भिः-परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानिविनयसमाधिभेदरूपाणि प्रज्ञप्तानि-प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं, तद्यथेत्युदाहरणोपन्यासार्थ:-विनयसमाधिः १ श्रुतसमाधिः २ तपःसमाधिः ३ आचारसमाधिः ४ तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यं, विनये विनयाद्वा समाधिः विनयसमाधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः ।१६। एतदेव श्लोकेन संगृह्णाति
श्रीदशवैकालिकम् ।
१८२