________________
निवेशयन्ति, यथा “मातापितरौ कन्यां गुणैर्वयसा च संवर्ध्य योग्यभर्तरि स्थापयन्ति" एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति, तानेवंभूतान् गुरून्मानयति, योऽभ्युत्थानादिना मानार्हान्मानयोग्यान् तपस्वी सन्, जितेन्द्रियः सत्यरत इति प्राधान्यख्यापनार्थं विशेषणद्वयं, स पूज्य इति ॥४५१॥ तेसिं गुरूणं गुणसागराणं,
___ सोच्चाण मेहावि सुभासियाइं । चरे मुणी पंचरए तिगुत्तो,
चउक्कसायावगए स पुज्जो ॥४५२॥ तथा-तेसिं गुरूणंति, तेषां गुरूणामनन्तरोदितानां गुणसागराणांगुणसमुद्राणां सम्बन्धीनि श्रुत्वा मेधावी सुभाषितानि-परलोकोपकारकाणि चरति-आचरति मुनिः-साधुः पञ्चरत:-पञ्चमहाव्रतसक्तः त्रिगुप्तोमनोगुप्त्यादिमान् चतुष्कषायापगत इत्यपगतक्रोधादिकषायो यः स पूज्य इति ॥४५२॥
प्रस्तुतफलाभिधानेनोपसंहरन्नाहगुरुमिह सययं पडियरिय मुणी,
जिणव( म )यनिउणे अभिगमकुसले । धुणिय रयमलं पुरेकडं,
___ भासुरमउलं गई वइ ॥४५३॥ त्ति बेमि ॥ विणयसमाहीए तइओ उद्देसो समत्तो ९-३ ॥
गुरुन्ति, गुरुमाचार्यादिरूपमिहमनुष्यलोके सततं-अनवरतं परिचर्य-विधिनाऽऽराध्य मुनिः-साधुः, किंविशिष्टो मुनिरित्याहजिनवचन( मत )निपुण:-आगमे प्रवीणः, अभिगमकुशलो-लोकप्राघूर्णकादिप्रतिपत्तिदक्षः, स एवंभूतो विधूय रजोमलं पुराकृतं क्षपयि
श्रीदशवैकालिकम् ।
१८१