________________
वियाणीया अप्पगमप्पएणं, -- . -
जो रागदोसेहिं समो स पुज्जो ॥४४९॥ किंच-गुणेहित्ति, गुणैरनन्तरोदितै-विनयादिभिर्युक्तः साधुर्भवति, तथा अगुणैरुक्तगुणविपरीतैरसाधुः, एवं सति "गृहाण साधुगुणान् मुञ्चासाधुगुणांश्चे"ति शोभन उपदेशः एवमधिकृत्य प्राकृतशैल्या विज्ञापयति-विविधं ज्ञापयत्याऽऽत्मानमात्मना यस्तथा रागद्वेषयोः समो न रागवान्न द्वेषवान्निति स पूज्य इति ॥४४९।। तहेव डहरं च महल्लगं वा,
इत्थीं पुमं पव्वइयं गिहिं वा । नो हीलए नोऽवि य खिसएज्जा,
थंभं च कोहं च चए स पुज्जो ॥४५०॥ किंच-तहेवेति, तथैवेति पूर्ववत् डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वा, वाशब्दात्तदन्यतीर्थिकं वा, न हीलयति, नापि खिसयति, तत्र सूयया असूयया वा, सकृदुष्टाभिधानं हीलनं, तदेवासकृत् खिसनमिति, हीलनखिसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यः, निदानत्यागेन तत्वतः कार्यत्यागादिति ॥४५०॥ जे माणिया सययं माणयंति,
जत्तेण कन्नं च निवेसयंति । ते माणए माणरिहे तवस्सी,
जिइंदिए सच्चरए स पुज्जो ॥४५१॥ जे माणिएत्ति, ये मानिता अभ्युत्थानादिसत्कारैः सततं-अनवरतं शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव
१८०
श्रीदशवैकालिकम् ।