________________
घातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो, न त्वशक्त्यादिना, परमाग्रशूरः-दानसंग्रामशूरापेक्षया प्रधानः शूरः जितेन्द्रियः सन् यः सहते न तु तैर्विकारं उपदर्शयति स पूज्य इति ॥४४६।। अवण्णवायं च परम्मुहस्स,
पच्चक्खओ पडिणीयं च भासं । ओहारिणिं अप्पियकारिणिं च,
भासं न भासेज्ज सया स पुज्जो ॥४४७॥ तथा अवण्णति, अवर्णवादं-अश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः, प्रत्यक्षतश्च-प्रत्यक्षस्य च प्रत्यनीकां अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा अवधारिणी-अशोभन एवायमित्यादिरूपां, अप्रीतिकारिणीं च-श्रोतुतनिवेदनादिरूपां भाषां-वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति ॥४४७॥ अलोलुए अक्कुहए अमाई,
___ अपिसुणे यावि अदीणवित्ती । नो भावए नोऽविय भावियप्पा,
अकोउहल्ले य सया स पुज्जो ॥४४८॥ तथा-अलोलुएत्ति, अलोलुपः-आहारादिषु अलुब्धः, अकुहकःइन्द्रजालादिकुहकरहितः, अमायी-कौटिल्यशून्यः, अपिशुनश्चापि-न छेदभेदकर्ता अदीनवृत्तिः-आहाराद्यलाभेऽपि शुद्धवृत्तिों भावयेदकुशलभावनया परं, यथा-अमुकपुरतो भवताऽहं वर्णनीयः, नापि च भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकश्च सदा नटनर्तकादिषु यः स पूज्य इति ॥४४८॥ गुणेहि साहू अगुणेहि साहू,
___गेण्हाहि साहू गुण मुंचऽसाहू ।
श्रीदशवैकालिकम् ।
१७९