________________
के इत्याह-कण्टका अयोमया-लोहात्मका उत्सहता नरेणअर्थोद्यमिनेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकाऽऽस्तरणशयनमप्यर्थलिप्सवः, न तु वाक्कण्टकाः शक्या इति, एवं व्यवस्थिते अनाशया-फलाऽप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् वाङ्मयान्-खरादिवागात्मकान् कर्णसरान्-कर्णगामिनः स पूज्य इति ॥४४४॥
एतदेव स्पष्टयतिमुहुत्तदुक्खा उ हवंति कंटया,
__ अओमया तेऽवि तओ सुउद्धरा । वायादुरुत्ताणि दुरुद्धराणि,
वेराणुबंधीणि महब्भयाणि ॥४४५॥ मुहत्तेति, मुहूर्तदुःखा-अल्पकालदुःखा भवन्ति कण्टका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, तेऽपि ततः कायात्सूद्धराः-सुखेनैवोद्धियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनर्दुरुद्धराणि-दुःखेनैवोज्रियन्ते मनोलक्ष्यवेधनात्, वैरानुबन्धीनितथाश्रवणप्रद्वेषादिनेह परत्र च वैरमनुबध्नन्ति, अत एव महाभयानि, कुगतिपातादिभयहेतुत्वादिति ॥४४५।। समावयंता वयणाभिघाया,
कण्णंगया दुम्मणियं जणंति । धम्मोत्ति किच्चा परमग्गसूरे,
जिइंदिए जो सहई स पुज्जो ॥४४६॥ किं च-समावयंते'ति समापतन्त-एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाता:-खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासाद्दौर्मनस्य-दुष्टमनोभावं जनयन्ति प्राणिनां, एवंभूतान् वचनाभि
१७८
श्रीदशवैकालिकम् ।