________________
किंच-अण्णायत्ति, अज्ञातोञ्छं-परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरत्यटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धं-उद्गमादिदोषरहितं, न तद्विपरीतं, एतदपि यापनार्थसंयमभरोद्वाहिदेहपालनाय, नान्यथा समुदानं च-उचितभिक्षालब्धं चनित्यं-सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कदाचित्कं वा, एवंभूतमपि विभागतः, अलब्ध्वा-अनासाद्य न परिदेवयेत्-न खेदं यायात्, तथा मन्दभाग्योऽहं अशोभनो वा अयं देश इत्येवं विभागतश्च लब्ध्वा प्राप्योचितं न विकत्थते-न श्लाघां करोति सपुण्योऽहं शोभनो वा अयं देश इत्येवं स पूज्य इति ॥४४२॥ संथारसेज्जासणभत्तपाणे,
अप्पिच्छया अइलाभेऽवि संते । जो एवमप्पाणभितोसइज्जा,
संतोसपाहन्नरए स पुज्जो ॥४४३॥ किंच संथारेति, संस्तारकशय्यासनभक्तपानानि प्रतीतान्येतेष्वल्पेच्छता-अमूर्च्छया परिभोगः, अतिरिक्तपरिहरणं चातिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात्, य एवमात्मानमभितोषयति येन वा तेन वा यापयति सन्तोष-प्राधान्यरतः-सन्तोष एव प्राधान्यभावे रत:-सक्तः स पूज्य इति ॥४४३॥
इन्द्रियसमाधिद्वारेण पूज्यतामाहसक्का सहेउं आसाइ कंटया,
अओमया उच्छहया नरेणं । अणासए जो उ सहिज्ज कंटए,
वईमए कण्णसरे स पुज्जो ॥४४४॥ सक्कित्ति, शक्याः सोढुमाशयेतीदं मे भविष्यतीति प्रत्याशया
श्रीदशवैकालिकम् ।
१७७