________________
विविहगुणतवोरए य निच्चं, भवइ निरासए निज्जरहिए । तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥४५७॥
भवति चात्र श्लोक इति पूर्ववत्, स चायं-विविहेत्यादि, विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति, निराशो-निष्प्रत्याश इहलोकादिषु, निर्जरार्थिकःकर्मनिर्जरार्थी, स एवंभूतः तपसा विशुद्धेन धुनोति-अपनयति पुराणपापं-चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपःसमाधाविति ॥४५७॥
उक्तः तप:समाधिः, आचारसमाधिमाह
चउव्विहा खलु आयारसमाही भवइ, तंजहा-नो इहलोगट्ठयाए आयारमहिढेज्जा १, नो परलोगट्ठयाए आयारमहिढेज्जा २, नो कित्तिवण्णसद्दसिलोगट्ठयाए आयारमहिढेज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिडेज्जा ४, चउत्थं पयं भवइ । सू० २० ।
चउव्विहा इत्यादि, चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्याद्याचाराभिधानभेदेन पूर्ववत्, यावन्नान्यत्रार्हतैरर्हत्सम्बन्धिभि-हेतुभिरनाश्रवत्वादिभिः आचारंमूलगुणोत्तरगुणमयमधितिष्ठेत्, निरीहः सन् यथा मोक्ष एव भवतीति चतुर्थं पदं भवति ।२०।
भवइ य एत्थ सिलोगोजिणवयणरए अतितिणे, पडिपुन्नाययमाययट्ठिए । आयारसमाहिसंवुडे, भवइ य दंते भावसंधए ॥४५८॥
भवति चात्र श्लोक इति पूर्ववत्, स चायं-जिणवयणरए इत्यादि, जिनवचनरतः-आगमे सक्तः, अतिन्तिन:-न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयतमायातार्थिकः
श्रीदशवैकालिकम् ।
१८६