________________
अत्यन्तं मोक्षार्थी आचारसमाधिसंवृत इत्याचारे यः समाधिस्तेन स्थगिता श्रवद्वारः सन् भवति च दान्त - इन्द्रियनो इन्द्रियदमाभ्यां भावसन्धको - भावो - मोक्ष - स्तत्सन्धक आत्मनो मोक्षासन्नकारीति । ४५८॥
सर्व्वसमाधिफलमाह
अभिगम चउरो समाहिओ, सुविसुद्धो सुसमाहियप्पओ । विउलहियं सुहावहं पुणो, कुव्वइ असो पयखेममप्पणो ॥ ४५९ ॥
अभिगमेति, अभिगम्य - विज्ञायासेव्य च चतुरः समाधीननन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावहं पुनरिति विपुलं - विस्तीर्णं हितं तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं स्थानं, क्षेमं - शिवं, आत्मन एव, न त्वन्यस्येति अनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति ॥ ४५९॥
"
एतदेव स्पष्टयति
जाइ (जरा) मरणाओ मुच्चई, इत्थंथं च चएइ सव्वसो ।
सिद्धे वा भवइ सासए,
देवे वा अप्परए महड्डिए ॥ ४६० ॥ त्ति बेमि ॥ ९-४॥ विणयसमाहीणामज्झयणं समत्तं ९ ॥
जाइ इति, जातिजरामरणात् जन्मजरामरणात्संसारान्मुच्यते, असौ सुसाधुरित्थंस्थं चेति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीतीत्थंस्थंनारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च चएइ - त्यजति सर्वशः- सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा कर्म्मक्षयात् सिद्धो भवति, शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वाऽल्परतः - पामा - परिगतकण्डूयनकल्परतरहितो महद्धिकः - अनुत्तरवैमानिकादिः || ४६० || ब्रवीमीति
श्रीदशवैकालिकम् ।
१८७