________________
पूर्ववत् ॥ इति विनयसमाधौ चतुर्थ उद्देशकः ॥ इति श्रीसुमतिसाधुविरचितावचूरौ
नवमं विनयसमाधिनाममध्ययनं समाप्तम् ९ ॥ 蛋蛋蛋
अथ सभिक्षुनाम दशमं अध्ययनम् । व्याख्यातं विनयसमाध्यध्ययनम् ॥ अधुना सभिक्ष्वाख्यमारभ्यते,
अस्य चायमभिसम्बन्धः इहानन्तराध्ययने आचारप्रणिहितो यथोचितविनय
संपन्नो भवतीत्येतदुक्तं, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग्भिक्षुरित्येतदुच्यते, इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति । तच्चेदं
निक्खम्ममाणाइ य बुद्धवयणे,
-
निच्चं चित्तसमाहिओ हवेज्जा ।
इत्थीण वसं न यावि गच्छे,
वंतं नो पडियाय जे स भिक्खू ॥ ४६१ ॥ किंच-निक्खम्मेति, निष्क्रम्य - द्रव्यभावगृहात्, प्रव्रज्यां गृहीत्वेत्यर्थः आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां निष्क्रम्य किमित्याहबुद्धवचने - अवगततत्त्वतीर्थकरगणधरवचने नित्यं सर्वकालं चित्तसमाहितश्चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः । व्यतिरेकत: समाधानोपायमाह - स्त्रीणां सर्वासामसत्कार्यनिबन्धनभूतानां वशंतत्परतन्त्रता(तदायत्तता)रूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचनंचित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेन, अन्योपायासम्भवात्, वान्तं परित्यक्तं सद्विषयजम्बालं न प्रत्यापिबति-न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुर्भावभिक्षुरिति ॥४६१||
१८८
श्रीदशवैकालिकम् ।