Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 197
________________ वियाणीया अप्पगमप्पएणं, -- . - जो रागदोसेहिं समो स पुज्जो ॥४४९॥ किंच-गुणेहित्ति, गुणैरनन्तरोदितै-विनयादिभिर्युक्तः साधुर्भवति, तथा अगुणैरुक्तगुणविपरीतैरसाधुः, एवं सति "गृहाण साधुगुणान् मुञ्चासाधुगुणांश्चे"ति शोभन उपदेशः एवमधिकृत्य प्राकृतशैल्या विज्ञापयति-विविधं ज्ञापयत्याऽऽत्मानमात्मना यस्तथा रागद्वेषयोः समो न रागवान्न द्वेषवान्निति स पूज्य इति ॥४४९।। तहेव डहरं च महल्लगं वा, इत्थीं पुमं पव्वइयं गिहिं वा । नो हीलए नोऽवि य खिसएज्जा, थंभं च कोहं च चए स पुज्जो ॥४५०॥ किंच-तहेवेति, तथैवेति पूर्ववत् डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वा, वाशब्दात्तदन्यतीर्थिकं वा, न हीलयति, नापि खिसयति, तत्र सूयया असूयया वा, सकृदुष्टाभिधानं हीलनं, तदेवासकृत् खिसनमिति, हीलनखिसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यः, निदानत्यागेन तत्वतः कार्यत्यागादिति ॥४५०॥ जे माणिया सययं माणयंति, जत्तेण कन्नं च निवेसयंति । ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरए स पुज्जो ॥४५१॥ जे माणिएत्ति, ये मानिता अभ्युत्थानादिसत्कारैः सततं-अनवरतं शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव १८० श्रीदशवैकालिकम् ।

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240