Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 186
________________ एतदेव विनयाविनयफलं मनुष्यानधिकृत्याहतहेव अविणीयप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहंता, छाया विगलितेंदिया ॥४२२ ॥ तहेवत्ति, तथैव तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् । लोकेऽस्मिन् मनुष्यलोके, नरनार्य इति प्रकटार्थ दृश्यन्ते दुःखमेधमाना इति पूर्ववत्, छारा (ता: ) - कसघातव्रणाङ्कित - शरीराः, विगलितेन्द्रिया:अपनीतनासिकादीन्द्रियाः पारदारिकादय इति ॥४२२ ॥ दंडसत्थपरिज्जुण्णा, असब्भवयणेहि य । कलुणाविवन्नच्छंदा, खुप्पिवासाइपरिगया ॥४२३॥ तथा दंडत्ति, दण्डा - वेत्रदण्डादयः शस्त्राणि खड्गादीनि ताभ्यां परिजीर्णाः समन्ततो दुर्बलभावमापादिताः, तथा असभ्यवचनैश्चखरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सन्तः सतां करुणाहेतुत्वात् करुणा-दीना व्यापन्नाच्छन्दसः-परायत्ततया अपेतस्वाभिप्रायाः, क्षुधाबुभुक्षया पिपासया - तृषा परिगता - व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवं इह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेः दुःखिततरा विज्ञायन्त इति ॥४२३॥ विनयफलमाह तहेव सुविणीयप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥ ४२४॥ तहेवत्ति, तथैव विनीततिर्यंच इव सुविनीतात्मानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः ऋद्धि प्राप्ता महायशस इति पूर्ववत्, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति ॥४२४॥ श्रीदशवैकालिकम् । १६९

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240