Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 174
________________ च तपोऽभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थं भेदेनाऽभिधानमिति । स एवंभूतः शूर इव-विक्रान्तभट इव सेनयाचतुरङ्गरूपया इन्द्रियकषायादिसेनया निरुद्धः सन् समाप्तायुधःसंपूर्णतपःप्रभृतिखड्गाद्यायुधः, अलं-अत्यर्थमात्मनो भवति, संरक्षणायै अलं च परेषां निवा(राक)रणायेति ॥३९६॥ एतदेव स्पष्टयन्नाहसज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा ॥३९७॥ सज्झायति, स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्ध्यानं तत्र रतस्य-आसक्तस्य त्रातुः-स्वपरोभयत्राणशीलस्य अपापभावस्यलब्ध्याद्यपेक्षारहिततया शुद्धचितस्य तपसि-अनशनादौ यथाशक्त्या, रतस्य विशुद्ध्यते अपैति, यदस्य साधोर्मलं-कर्ममलं पुराकृतं-जन्मान्तरोपात्तं, दृष्टान्तमाह-समीरितं-प्रेरितं, रूप्य-मलमिव ज्योतिषा-अग्निनेति ॥३९७॥ से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणंमि अवगए, कसिणब्भपुडावगमे व चंदिमि ॥३९८॥ त्तिबेमि ॥ इइ आयारपणिहिणामज्झयणं अट्ठमं समत्तं ८॥ ततश्च-से तारिसेत्ति, स तादृश अनन्तरोदितगुणयुक्तः साधुर्मुःखसहः-परीषहजेता, जितेन्द्रियः-पराजितश्रोत्रेन्द्रियादिः, श्रुतेन युक्तोविद्यावानित्यर्थः, अममः-सर्वत्र ममत्वरहितः, अकिञ्चनो-द्रव्यभावकिञ्चनरहितः, विराजते-शोभते, कर्मघने-ज्ञानावरणीयादिकर्ममेघे अपगते श्रीदशवैकालिकम् । १५७

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240