________________
च तपोऽभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थं भेदेनाऽभिधानमिति । स एवंभूतः शूर इव-विक्रान्तभट इव सेनयाचतुरङ्गरूपया इन्द्रियकषायादिसेनया निरुद्धः सन् समाप्तायुधःसंपूर्णतपःप्रभृतिखड्गाद्यायुधः, अलं-अत्यर्थमात्मनो भवति, संरक्षणायै अलं च परेषां निवा(राक)रणायेति ॥३९६॥
एतदेव स्पष्टयन्नाहसज्झायसज्झाणरयस्स ताइणो,
अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं,
समीरिअं रुप्पमलं व जोइणा ॥३९७॥ सज्झायति, स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्ध्यानं तत्र रतस्य-आसक्तस्य त्रातुः-स्वपरोभयत्राणशीलस्य अपापभावस्यलब्ध्याद्यपेक्षारहिततया शुद्धचितस्य तपसि-अनशनादौ यथाशक्त्या, रतस्य विशुद्ध्यते अपैति, यदस्य साधोर्मलं-कर्ममलं पुराकृतं-जन्मान्तरोपात्तं, दृष्टान्तमाह-समीरितं-प्रेरितं, रूप्य-मलमिव ज्योतिषा-अग्निनेति ॥३९७॥ से तारिसे दुक्खसहे जिइंदिए,
सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणंमि अवगए,
कसिणब्भपुडावगमे व चंदिमि ॥३९८॥ त्तिबेमि ॥ इइ आयारपणिहिणामज्झयणं अट्ठमं समत्तं ८॥ ततश्च-से तारिसेत्ति, स तादृश अनन्तरोदितगुणयुक्तः साधुर्मुःखसहः-परीषहजेता, जितेन्द्रियः-पराजितश्रोत्रेन्द्रियादिः, श्रुतेन युक्तोविद्यावानित्यर्थः, अममः-सर्वत्र ममत्वरहितः, अकिञ्चनो-द्रव्यभावकिञ्चनरहितः, विराजते-शोभते, कर्मघने-ज्ञानावरणीयादिकर्ममेघे अपगते
श्रीदशवैकालिकम् ।
१५७