________________
पर्यायान्तरापत्तिलक्षणं, ते हि मनोज्ञा अपि क्षणादमनोज्ञतया परिणमन्ति, अमनोज्ञा अपि मनोज्ञतयेति, तुच्छं रागद्वेषयोर्निमित्तमिति ॥ ३९३॥
पोग्गलाणं परीणामं, तेसिं नच्चा जहा तहा । विणीअतण्हो विहरे, सीईभूएण अप्पणा ॥३९४॥
एतदपि स्पष्टयन्नाह-पोग्गलाणं ति, पुद्गलानां - शब्दादि-विषयान्तर्गतानां परिणाममुक्तलक्षणं तेषां ज्ञात्वा - विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा विनीततृष्णः - अपेताभिलाषः शब्दादिषु विहरेत, शीतीभूतेन - क्रोधाद्यग्न्युपगमात् प्रशान्तेनात्मनेति ॥ ३९४॥
जाइ सद्धाइ निक्खतो, परिआयाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरिअसंमए ॥ ३९५ ॥ किंच - जाइत्ति, यया श्रद्धया - प्रधानगुणस्वीकरणरुपया निष्क्रान्तोऽविरतिजम्बालात्, पर्यायस्थानं प्रव्रज्यारूपं उत्तमं प्रधानं प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतितया प्रवर्धमानामनुपालयेद्यनेन, क्वेत्याह-गुणेषुमूलगुणादिलक्षणेषु आचार्यसंमतेषु - तीर्थंकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमित्येतद्वयाचक्षते, तामेव श्रद्धामनुपालयेदुणेषु, किंभूतां - आचार्यसम्मतां, न तु स्वाग्रहकलङ्कितामिति ॥ ३९५ ॥
आचारप्रणिधिफलमाह
तवं चिमं संजमजोगयं च,
१५६
सज्झायजोगं च सया अट्ठिए ।
सूरे व सेणाइ समत्तमाउहे,
अलमप्पणो होइ अलं परेसि ॥ ३९६ ॥
तवं चिमंति, तपश्चेदमनशनादिरूपं साधु लोकप्रतीतं संयमयोगं
-
च पृथिव्यादिविषयं संयमव्यापारं च स्वाध्यायादियोगं च - वाचनादिव्यापारं सदा सर्वकालमधिष्ठाता - तपः प्रभृतीनां कर्तेत्यर्थः इह
श्रीदशवैकालिकम् ।