________________
इव तस्करान्विवर्जयेदिति ॥३९०॥
विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥३९१॥
अपिच-विभूसेति, विभूषा-वस्त्रादिराढा, स्त्रीसंसर्ग:-येन केनचित्प्रकारेण स्त्रीसम्बन्धः, प्रणीतरसभोजनं-गलत्स्नेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादि नरस्यात्मगवेषिणः-आत्महितान्वेषणपरस्य विषं । तालपुटं यथा-तालमात्रव्यापत्तिकरविषकल्पमहितमिति ॥३९१॥
अंगपच्चंगसंठाणं, चारुल्लविअपेहि । इत्थीणं तं न निज्झाए, कामरागविवड्ढणं ॥३९२॥
किंच-अंगपच्चंगेति, अङ्गप्रत्यङ्गसंस्थानमिति, अङ्गानिशिरःप्रभृतीनि प्रत्यङ्गानि-नयनादीनि एतेषां संस्थानं-विन्यासविशेषं, तथा चारु-शोभनं लपितप्रेक्षितं-लपितं-जल्पितं प्रेक्षितं-निरीक्षितं स्त्रीणां सम्बन्धि, तदङ्गप्रत्यङ्गसंस्थानादि न निरीक्षेत-न पश्येत्, कुत इत्याहकामरागविवर्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषान्मैथुनाभिलाषं वर्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधात् गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति ॥३९२॥
विसएसु मणुन्नेसु, पेमं नाभिनिवेसए ।
अणिच्चं तेसिं विनाय, परिणामं पुग्गलाण उ ॥३९३॥ किंच-विसएसुत्ति, विषयेषु-शब्दादिषु, मनोज्ञेषु-इन्द्रियानुकूलेषु, प्रेमं-रागं नाभिनिवेशयेत्-न कुर्यात्, एवममनोज्ञेषु द्वेषं, आह-उक्तमेवेदं प्राक् "कन्नसोक्खेहीत्यादौ" (गा.३६०) किमर्थं पुनरुपन्यास इति ?, उच्यते-कारणविशेषाभिधानेन विशेषोपलम्भार्थमिति, आह च-अनित्यमेवपरिणामानित्यतया तेषां-पुद्गलानां, तुशब्दात् शब्दादिविषयसम्बन्धिनामितियोगः, विज्ञाय-अवेत्य जिनवचनानुसारेण, किमित्याह-परिणाम
श्रीदशवैकालिकम् ।
१५५