________________
नारीणां-स्त्रीणां न कथयेत्कथां, शङ्कादिदोषप्रसङ्गादौचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा गृहिसंस्तवंगृहिपरिचयं न कुर्यात्तत्स्नेहादि-दोषसम्भवात्, कुर्यात्साधुभिः सह संस्तवं-परिचयं, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति ॥३८७॥
कथंचिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यत्र कारणमाह
जहा कुक्कुडपोअस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥३८८॥
जहत्ति, यथा कुर्कुटपोतस्य-कुर्कुटशिशोनित्यं-सर्वकालं कुललतो मार्जाराद्भयं एवं ब्रह्मचारिणः साधोः स्त्रीविग्रहात्-स्त्रीशरीराद् भयं, विग्रहग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति ॥३८८॥
यतश्चैवमतःचित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं । भक्खरंपिव दट्ठणं, दिहिँ पडिसमाहरे ॥३८९॥
चित्तभिर्तिति, चित्रभिति-चित्रगतां स्त्रियं न निरीक्षेत-न पश्येत्, नारी वा सचेतनामेव स्वलकृतां, उपलक्षणमेतद-नलङ्कृतां च न निरीक्षेत, कथंचिद्दर्शनयोगेऽपि भास्करमिवादित्यमिव दृष्ट्वा दृष्टि प्रतिसमाहरेत्-द्रागेव निवर्तयेदिति ॥३८९॥
किं बहुना ? हत्थपायपडिच्छिन्नं, कण्णनासविगप्पिअं । अवि वाससयं नारिं, बंभचारी विवज्जए ॥३९०॥
हत्थत्ति, हस्तपादप्रतिच्छिन्नां-प्रतिच्छिन्नहस्तपादां कर्णनासाविकृतामिति-विकृतकर्णनासामपि वर्षशतिकां नारी, एवं वृद्धामपि किमङ्ग पुनस्तरुणी ?, तां तु सुतरामेव, ब्रह्मचारी-चारित्रधनो महाधन १५४
श्रीदशवैकालिकम् ।