________________
ज्ञानाप्रमादातिशयतः स्खलनाऽसम्भवात् यद्येवंभूतस्यापि स्खलितं सम्भवति न चैनमित्युपहसेदित्युपदेशस्ततोऽन्यस्य सुतरां सम्भवति, नासौ हसितव्य इति ॥ ३८४॥
नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूयाहिगरणं पयं ॥ ३८५ ॥
किंच - नक्खत्तंति, गृहिणा पृष्टः सन् नक्षत्रं- अश्विन्यादि, स्वप्नंशुभाशुभफलमनुभूतादि योगं - वशीकरणादि निमित्तमतीतादि मन्त्रंवृश्चिकमन्त्रादि भेषजं - अतीसाराद्यौषधं, गृहिणां असंयतानां तदेतन्नाचक्षीत, किंविशिष्टमित्याह - भूताधिकरणं पदमिति भूतानि - एकेन्द्रियादीनि संघट्टनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीतिपरिहारार्थमित्येवं ब्रूयात् - अनधिकारोऽत्र तपस्विनामिति ॥ ३८५ ॥
अन्नट्ठे पगडं लयणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थी सुविवज्जियं ॥ ३८६॥
किंच अन्नद्वंति, अन्यार्थं प्रकृतं न साधुनिमित्तमेव निवर्तितं, लयनं स्थानं वसतिरूपं भजेत्-सेवेत, शयनासनमित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते - उच्चारभूमिसम्पन्नंउच्चारप्रश्रवणादिभूमियुक्तं, तद्रहिते असकृत्तदर्थं निर्गमनादिदोषात्तथा स्त्रीपशुविवर्जितमिति, एकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं रूपा (स्त्र्या) द्यालोकनादिरहितमिति ॥३८६ ॥
तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह
विवित्ता य भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ॥३८७॥ विवित्ता यत्ति, विविक्ता च तदन्यसाधुभिर्विवर्जिता, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषसंयुक्ता भवेच्छय्या - वसत्यादि ततो
श्रीदशवैकालिकम् ।
१५३