________________
परोक्षदोषकीर्तनरूपं न खादेत् न भाषेत, मायामृषांमायाप्रधानां मृषावाचं विवर्जयेदिति ॥३८१॥
अप्पत्तियं जेण सिया, आसु कुप्पिज्ज वा परो । सव्वसो तं न भासिज्जा, भासं अहियगामिणि ॥ ३८२॥ किंच - अप्पत्तियन्ति, अप्रीतिर्येन स्यादिति प्राकृतशैल्या येनेति - यया भाषया भाषितया अप्रीतिमात्रं भवेत्, तथा आशु शीघ्रं, कुप्येद्वा परो रोषकार्यं दर्शयेत् सर्वशः सर्वावस्थासु तामित्थंभूतां न भाषेत भाषां, अहितगामिनीमुभयलोकविरुद्धामिति ॥ ३८२॥
भाषणोपायमाह
दिवं मिअं असंदिद्धं, पडिपुन्नं विअं जिअं । अयंपिरमणुव्विग्गं, भासं निसिर अत्तवं ॥ ३८३॥
दिति, दृष्टां - दृष्टार्थ - विषयां मितां - स्वरूपप्रयोजनाभ्यामसंदिग्धांनिःशंकितां प्रतिपूर्णां स्वरादिभिर्व्यक्तां - अलल्लां जितां परिजि (चि) तामजल्पनशीलां नोच्चैर्लग्नविलग्नामनुद्विग्नां नोद्वेगकारिणीमेवंभूतां भाषां निसृजेत् ब्रूयादात्मवान् सचेतन इति ॥३८३॥
प्रस्तुतोपदेशाधिकार एवेदमाह
दिट्ठिवायमहिज्जगं ।
आयारपन्नत्तिधरं, वायविक्खलिअं नच्चा, न तं उवहसे मुणी ॥ ३८४॥
आयारेति, आचारप्रज्ञप्तिधरमिति आचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतं तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारादिवेदिनं वाग्विस्खलितं ज्ञात्वा विविधमनेकैः प्रकारैः लिंगभेदादिभिः स्खलितं विज्ञाय न तमाचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारादिधरस्य वाचि कौशल - मित्येवं, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यते नाधीतदृष्टिवादं, तस्य श्रीदशवैकालिकम् ।
१५२