________________
एतदेवाहइहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई । बहुस्सुयं पज्जुवासिज्जा, पुच्छिज्जत्थविणिच्छयं ॥३७८॥
इहलोएत्ति, इहलोकपरत्रहितमिहाऽकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धतः, उभयलोकहितमित्यर्थः, येनार्थेन ज्ञाना-दिना करणभूतेन गच्छति सुगति, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकारे उक्तव्यतिकरसाधनोपायमाह-बहुश्रुतं-आग्रमवृद्धं पर्युपासीत-सेवेत, सेवमानश्च पृच्छेदर्थविनिश्चयमपायरक्षकं कल्याणावहं वाऽर्थावितथभावमिति ॥३७८॥
हत्थं पायं च कायं च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥३७९॥
पर्युपासीनश्च-हत्थंति, हस्तं पादं च कायं च प्रणिधायेति संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत्, ईषल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति ॥३७९॥
न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न य ऊरूं समासिज्जा, चिट्ठिज्जा गुरुणंतिए ॥३८०॥
किं च-न पक्खउत्ति, न पक्षतः- पार्श्वतः, न पुरतो-ऽग्रतो नैव कृत्यानामाचार्याणां पृष्ठतो मार्गतो निषीदेदिति वर्तते, यथासंख्यमविनयवन्दमानान्तरायादर्शनादिदोषप्रसङ्गात्, न चोरूं समाश्रित्योरोरुपमूलं कृत्वा तिष्ठेद्र्वन्तिके, अविनयादिदोषप्रसङ्गादिति ॥३८०॥
उक्तः कायप्रणिधिर्वाप्रणिधिमाहअपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ॥३८१॥
अपुच्छिउत्ति, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तद्देवमिति, तथा पृष्ठिमांसं श्रीदशवैकालिकम् ।
१५१