________________
यत एवमतः कषायनिग्रहार्थमिदं कुर्यादित्याहरायणिएसु विणयं पउंजे,
धुवसीलयं सययं न हावइज्जा । कुम्मुव्व अल्लीणपलीणगुत्तो,
__परक्कमिज्जा तवसंजमंमि ॥३७५॥ रायणिएत्ति, रत्नाधिकेषु-चिरदीक्षितादिषु विनयं-अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा ध्रुवशीलतां-अष्टादशशीलाङ्गसहस्त्रपालनरूपां, सततंअनवरतं यथाशक्त्या न हापयेत्, तथा कूर्म इव-कच्छप इव आलीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक्संयम्येत्यर्थः, पराक्रमेत-प्रवर्तेत तपःसंयमे-तपःप्रधाने संयमे इति ॥३७५।।
निदं च न बहु मन्निज्जा, सप्पहासं विवज्जए । मिहो कहाहिं न रमे, सज्झायंमि रओ सया ॥३७६॥
किं च-निदं चेति, निद्रां च न बहु मन्येत न प्रकामशायी स्यात्, सप्रहासं च-अतीव-प्रहासरूपं विवर्जयेत्, मिथःकथासु-राहस्यिकीषु न रमेत, स्वाध्याये-वाचनादौ रतः सदा, एवंभूतो भवेदिति ॥३७६॥
जोगं च समणधम्मंमि, मुंजे अणलसो धुवं । जुत्तो य समणधम्ममि, अटुं लहइ अणुत्तरं ॥३७७॥
तथा-जोगं चेति, योगं च त्रिविधं-मनोवाक्कायव्यापारं श्रमणधर्मेक्षान्त्यादिलक्षणे युञ्जीत अनलसः-उत्साहवान्, ध्रुवं-कालाद्यौचित्येन नित्यं सम्पूर्णं सर्वत्र प्रधानोपसर्जनभावेन वा, अनुप्रेक्षाकाले मनोयोगं, अध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति, फलमाह-युक्त एवं व्यापृतः श्रमणधर्मे दशविधे अर्थं लभते-प्राप्नोत्यनुत्तरं भावार्थं ज्ञानादिरूपमिति ॥३७७॥
१५०
श्रीदशवैकालिकम् ।