________________
कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताइं (णि) नासेइ, लोभो सव्वविणासणो ॥३७२॥
कोहत्ति, क्रोधः-प्रीतिं प्रणाश-यति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो-विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया-मित्राणि नाशयति, कौटिल्यवर्तिन-स्त्यागदर्शनात्, लोभःसर्वविनाशनः, तत्त्वतस्त्रयाणामपि तद्भावभावि-त्वादिति ॥३७२।।
यत एवमतःउवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽज्जवभावेण, लोभं संतोसओ जिणे ॥३७३॥
उवसमेणंति, उपशमेन-क्षान्तिरूपेण हन्यात्क्रोधं, उदयनिरोधोदयप्राप्ताऽफलीकरणेन, एवं मानं मार्दवेन-अनुत्सृ(च्छुि)ततया जयेत्, उदयनिरोधादिनैव, मायां चाजवभावेनाशठतया जयेदुदयनिरोधादिनैव, एवं लोभं सन्तोषतः निःस्पृहत्वेन जयेत्तदुदयनिरोधोदयप्राप्ताऽफलीकरणेनेति ॥३७३॥
क्रोधादीनामेव परलोकापायमाहकोहो य माणो य अणिग्गहीया,
माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया,
__ सिंचंति मूलाई पुणब्भवस्स ॥३७४॥
कोहत्ति, क्रोधश्च मानश्चानिगृहीतौ-उच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ-वृद्धि गच्छन्तौ, चत्वार एते क्रोधादयः कृत्स्नाः -सम्पूर्णाः, कृष्णा वा-क्लिष्टाः कषायाः सिञ्चन्त्यशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्भवस्यपुनर्जन्मतरोरिति ॥३७४॥
-
श्रीदशवैकालिकम् ।
१४९