________________
विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथाऽध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्तेत भोगेभ्य इति ॥३६८॥
बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खित्तं कालं च विन्नाय, तहप्पाणं निझुंजए ॥३६९॥
'बलं थामंति, बलं-शारीरिकं स्थाम-हस्तादिविशेषोत्थं पेहाए प्रेक्ष्य श्रद्धामारोग्यं आत्मनः, क्षेत्रं"चिक्खल्ल-पाणथंडिल्ले" त्यादि १३ गुणोपेतं विज्ञायात्मनः कालं-यौवनादिवयोरूपं नियोजयेद्धर्मे ॥३६९।।
उपदेशाधिकारे प्रक्रान्ते इदमेव समर्थयन्नाहजरा जाव न पीडेई, वाही जाव न वड्डई । जाविंदिआ न हायंति, ताव धम्मं समायरे ॥३७०॥
जरत्ति, जरा-वयोहानिलक्षणा यावन्न पीडयति, व्याधिःक्रियासामर्थ्यशत्रुर्यावन्न वर्धते, यावदिन्द्रियाणि-क्रियासामर्थ्यो-पकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्मं समाचरेच्चारित्रधर्ममिति ॥३७०॥
तदुपायमाहकोहं माणं च मायं च, लोभं च पाववड्ढणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ॥३७१॥
कोहंति, क्रोधं मानं च मायां च, लोभं च पापवर्धनं, सर्व एते पापहेतव इति पापवर्धनव्यपदेशः, यतश्चैवमतो वमेच्चतुरो दोषान् एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसम्पदिति ॥३७१॥
अवमने त्विह लोके एवापायमाह
१. बृहल्लघुवृत्त्योरव्याख्याता अन्यकृतेति १४८
श्रीदशवैकालिकम् ।