________________
ओघत आभोगानाभोगसेवितार्थमाह
से जाणमजाणं वा, कट्टु आहम्मिअं पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥ ३६५॥
सेति, स- साधुः जानन्न - जानन्वा - आभोगतोऽनाभोगतश्चेत्यर्थः, कृत्वा आधार्मिकं पदं कथञ्चि द्रागद्वेषाभ्यां मूलोत्तरगुणविराधनमिति भाव:, संवरेत्क्षिप्रमात्मानं भावतो निवर्त्याऽऽलोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेदनुबन्धदोषादिति ॥ ३६५॥
अणायारं परक्कम्म, णेव गूहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिइंदिए ॥ ३६६॥
एतदेवाह - अणायारं ति, अनाचारं - सावद्ययोगं पराक्रम्य - आसेव्य गुरुसकाशे आलोचयन्न निगूहेत- न निह्नवीत, तत्र गूहनं - किञ्चित्कथनं, निह्नव-एकान्तापलापः, किंविशिष्ट: सन्नित्याह- शुचिः - अकलुषमतिः सदा विकटभावः - प्रकट - भावः, असंसक्तः - अप्रतिबद्धः क्वचिज्जितेन्द्रियो जितेन्द्रियप्रमादः सन्निति ॥ ३६६ ॥
अमोहं वयणं कुज्जा, आयरियस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३६७॥
तथा - अमोहंति, अमोघं - अवन्ध्यं वचनमिदं कुर्वित्यादिरूपं कुर्यादित्येवमित्यभ्युपगमेन, केषामित्याह - आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन कर्मणोपपादयेत् क्रियया सम्पादयेदिति ॥ ३६७॥
अधुवं जीवियं नच्चा, सिद्धिमग्गं वियाणिया । विणियट्टिज्ज भोगेसु आउं परिमिअप्पणो ॥ ३६८ ॥
तथा अधुवंति, अध्रुवं-अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा, तथा सिद्धिमार्ग- सम्यग्ज्ञानदर्शनचारित्रलक्षणं विज्ञाय श्रीदशवैकालिकम् ।
१४७