________________
अत्थंगयंमि आइच्चे, पुरत्था अ अणुग्गए । आहारमइयं सव्वं, मणसावि ण पत्थए ॥३६२॥
किंच-अत्यंति, अस्तं गते आदित्ये-अस्तपतं प्राप्ते अदर्शनीभूते वा पुरस्तात् चानुद्गते-प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं सक्निरवशेषमाहारजातं मनसापि न प्रार्थयेत् किमङ्ग पुनर्वाचा कर्मणा वेति ॥३६२॥
दिवाप्यलभ्यमानेऽप्याहारे किमित्याहअतिंतिणे अचवले, अप्पभासी मिआसणे । हविज्ज उअरे दंते, थोवं लई न खिसए ॥३६३॥
अतिंतिणेत्ति, अतिन्तिनो भवेत्, अतिन्तिनो नामालाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत्-सर्वत्र स्थिर इत्यर्थः, तथा अल्पभाषी-कारणे परिमितवक्ता, तथा मिताशन:-मितभोक्ता भवेदित्येवंभूतो भवेत्, तथोदरे दान्तो येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिसयेत्-देयं दातारं वा न हेलयेदिति ॥३६३।।
मदवजनार्थमाहन बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुअलाभे न मज्जिज्जा, जच्चा तवस्सिबुद्धीए ॥३६४॥
न बाहिरंति, न बाह्यमात्मनोऽन्यं परिभवेत्तथाऽऽत्मानं न समुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न मायेत, पण्डितो लब्धिमानहं इत्येवं तथा जात्या तपस्त्वेन बुद्धया वा न माद्येतेति वर्तते, जातिसम्पन्नः तपस्वी बुद्धिमान् अहमित्येवं, उपलक्षणं चैतत्कुलबलरूपाणां, कुलसम्पन्नो बलसम्पन्नोऽहं, रूपसम्पन्नोऽहमित्येवं न माद्येदिति ॥३६४॥
श्रीदशवैकालिकम् ।
१४६