________________
सुसन्तुष्टो येन वा तेन वा सन्तोषगामी, अल्पेच्छो न्यूनोदरतया आहारपरित्यागी, सुभरः स्यादल्पेच्छत्वादेव दुर्भिक्षादाविति फलं, प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादित्यादि, तथा आसुरत्वं-क्रोधभावं न गच्छेत् क्वचित् स्वपक्षादौ श्रुत्वा जिनशासनं-क्रोधविपाकप्रतिपादकं वीतरागवचनं, जहा-"चउहि ठाणेहिं जीवा आसुरत्ताए कम्मं पकरिति, तंजहा-कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जं णं मए एस पुरिसे अण्णाणी मिच्छादिट्ठी अक्कोसइ हणइ वा तं ण मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरझंतित्ति सम्ममहियासमाणस्स निज्जरा एव भविस्सइ" त्ति ॥३५९॥
कन्नसुक्खेहिं सद्देहि, पेम्मं नाभिनिवेसए । दारुणं कक्कसं फासं, कारण अहिआसए ॥३६०॥
तथा कन्नति, कर्णसौख्यहेतवः-कर्णसौख्याः शब्दा-वेणुवीणादिसम्बन्धिनः तेषु प्रेम-रागं नाभिनिवेशयेत्-न कुर्यादित्यर्थः, तथा दारुणमनिष्टं कर्कशं-कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत्, न तत्र द्वेषं कुर्यात्, इत्यनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति ॥३६०॥
खुहं पिवासं दुस्सिज्ज, सीउण्हं अरइं भयं । अहिआसे अव्वहिओ, देहदुक्खं महाफलं ॥३६१॥
किंच-खुहत्ति, क्षुधं-बुभुक्षां, पिपासां-तृषं, दुःशय्या-विषमभूम्यादिरूपां, शीतोष्णं-प्रतीतं, अरति-मोहनीयोद्भवां, मेवादिसमुत्थमतिसहेदेतत्सर्वमेव अव्यथितोऽदीनमनाः सन्, देहे दुःख महाफलं संचिन्त्येति वाक्यशेषः, तथा च शरीरे सत्येतदुःखं, शरीरं चाऽसारं, सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति ॥३६१।।
श्रीदशवैकालिकम् ।
१४५